६.७४.१९

न रमे दारुणेनाहं न चाधर्मेण वै रमे ।
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥

अन्वयः

अहम् I, दारुणेन cruel, न रमे not revel, अधर्मेण च unrighteousness, न रमेवै not follow, विषमशीलोऽपि of unfavourable disposition, भ्राता a brother, भ्रात्रा by a brother, कथम् how निरस्यते expelled

Summary

"I do not delight in cruel deeds, nor follow unrighteousness. Or else because of unfavourable disposition how can a brother be expelled by a brother?"

पदच्छेदः

(अव्ययः)
रमेरमे (√रम् लट् उ.पु. )
दारुणेनाहंदारुण (३.१)–मद् (१.१)
(अव्ययः)
चाधर्मेण (अव्ययः)–अधर्म (३.१)
वैवै (अव्ययः)
रमेरमे (√रम् लट् उ.पु. )
भ्रात्राभ्रातृ (३.१)
विषमशीलेनविषम–शील (३.१)
कथंकथम् (अव्ययः)
भ्राताभ्रातृ (१.१)
निरस्यतेनिरस्यते (√निः-अस् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे दारु णे ना हं
चा र्मे वै मे
भ्रा त्रावि शी ले
थं भ्रा तानिस्य ते