६.७४.२७

निदर्शयस्वात्मबलं समुद्यतं; कुरुष्व सर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्य हि बाणगोचरं; त्वमद्य जीवन्सबलो गमिष्यसि ॥

M N Dutt

Displaying you own prowess, do you spend all your weapons and all your shafts. But coming within the ken of Laksmana's arrows, your will not today go hence, living with your forces.

पदच्छेदः

निदर्शयस्वात्मबलंनिदर्शयस्व (√नि-दर्शय् लोट् म.पु. )–आत्मन्–बल (२.१)
समुद्यतंसमुद्यत (√समुत्-यम् + क्त, २.१)
कुरुष्वकुरुष्व (√कृ लोट् म.पु. )
सर्वायुधसायकव्ययम्सर्व–आयुध–सायक–व्यय (२.१)
(अव्ययः)
लक्ष्मणस्यैत्यलक्ष्मण (६.१)–एत्य (√आ-इ + ल्यप्)
हिहि (अव्ययः)
बाणगोचरंबाण–गोचर (२.१)
त्वम्त्वद् (१.१)
अद्यअद्य (अव्ययः)
जीवन्जीवत् (√जीव् + शतृ, १.१)
सबलो (अव्ययः)–बल (१.१)
गमिष्यसिगमिष्यसि (√गम् लृट् म.पु. )

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
निर्श स्वात्म लं मुद्य तं
कु रुष्व र्वायु साव्य यम्
क्ष्म स्यैत्यहि बा गो रं
त्वद्य जीन्स लो मिष्यसि