६.७५.२३

इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ।
हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ॥

अन्वयः

इति thus, परुषम् harsh, ब्रुवाणम् spoken, सङ्कृद्ध: enraged, रावणात्मजम् Ravana's son, अत्यर्थं meaningful, लक्ष्मणः Lakshmana, हेतुमत् with reason, वाक्यम् words, प्रत्युवाच ह replied

M N Dutt

As Ravana's son was speaking thus harshly, Lakşmaņa conversant with the import of words, replied in a reasonable speech, saying.

Summary

When Indrajith was speaking harshly, enraged Lakshmana replied in a meaningful way with reason.

पदच्छेदः

इतिइति (अव्ययः)
ब्रुवाणंब्रुवाण (√ब्रू + शानच्, २.१)
संरब्धंसंरब्ध (√सम्-रभ् + क्त, २.१)
परुषंपरुष (२.१)
रावणात्मजम्रावण–आत्मज (२.१)
हेतुमद्वाक्यम्हेतुमत् (२.१)–वाक्य (२.१)
अत्यर्थंअत्यर्थम् (अव्ययः)
लक्ष्मणःलक्ष्मण (१.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तिब्रु वा णं सं ब्धं
रु षं रा णात्म जम्
हेतु द्वाक्य त्य र्थं
क्ष्म णः प्रत्यु वा