६.७५.३३

सुसंप्रहृष्टौ नरराक्षसोत्तमौ; जयैषिणौ मार्गणचापधारिणौ ।
परस्परं तौ प्रववर्षतुर्भृशं; शरौघवर्षेण बलाहकाविव ॥

पदच्छेदः

सुसम्प्रहृष्टौसु (अव्ययः)–सम्प्रहृष्ट (√सम्प्र-हृष् + क्त, १.२)
नरराक्षसोत्तमौनर–राक्षस–उत्तम (१.२)
जयैषिणौजय–एषिन् (१.२)
मार्गणचापधारिणौमार्गण–चाप–धारिन् (१.२)
परस्परंपरस्पर (२.१)
तौतद् (१.२)
प्रववर्षतुर्प्रववर्षतुः (√प्र-वृष् लिट् प्र.पु. द्वि.)
भृशंभृशम् (अव्ययः)
शरौघवर्षेणशर–ओघ–वर्ष (३.१)
बलाहकाविवबलाहक (१.२)–इव (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
सु संप्र हृ ष्टौ राक्ष सोत्त मौ
यैषि णौ मार्ग चा धारि णौ
स्प रं तौप्रर्ष तुर्भृ शं
रौ र्षे ला कावि