६.७५.४

उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ।
तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् ॥

अन्वयः

हनुमत्पृष्ठम् on the back of Hanuman, आरूढम् mounted, उदयस्थरविप्रभम् like the sun on eastern mountain, सविभीषणम् that Vibheeshana, एनंसौमित्रिम् Saumithri, तान् his, वानरशार्दूलान् च tiger among Vanaras, समारब्धः mounted, उवाच spoke, मे my, पराक्रमम् valour, पश्यध्वम् saw

Summary

Lakshmana was like the Sun on the eastern mountain mounted on the back of Hanuman, the tiger among Vanaras. He saw Vibheeshana and spoke.

पदच्छेदः

उवाचैनंउवाच (√वच् लिट् प्र.पु. एक.)–एनद् (२.१)
समारब्धःसमारब्ध (√समा-रभ् + क्त, १.१)
सौमित्रिंसौमित्रि (२.१)
सविभीषणम् (अव्ययः)–विभीषण (२.१)
तांश्चतद् (२.३)–च (अव्ययः)
वानरशार्दूलान्वानर–शार्दूल (२.३)
पश्यध्वंपश्यध्वम् (√पश् लोट् म.पु. द्वि.)
मेमद् (६.१)
पराक्रमम्पराक्रम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा चै नं मा ब्धः
सौ मि त्रिंवि भी णम्
तांश्च वा शा र्दू ला
न्प श्य ध्वं मे राक्र मम्