६.७५.९

तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ।
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥

अन्वयः

तदा then, लक्ष्मण: Lakshmana, राक्षसेन्द्रस्य Indrajith's words, तत् that, गर्जितम् roaring, श्रुत्वा hearing, अभीतवदनः fearless countenance, क्रुद्धः angry, रावणिम् Indrajith, वाक्यम् these words, अब्रवीत् spoken

M N Dutt

Hearing the vaunt of the Rākşasa-chief, Rahgu's son, inflamed with rage, with an undaunted countenance, spoke to Ravana's son.

Summary

On hearing Indrajith's words, Lakshmana spoke these words in anger with fearless countenance.

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
राक्षसेन्द्रस्यराक्षस–इन्द्र (६.१)
गर्जितंगर्जित (२.१)
लक्ष्मणस्तदालक्ष्मण (१.१)–तदा (अव्ययः)
अभीतवदनःअभीत–वदन (१.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
रावणिंरावणि (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा राक्ष से न्द्रस्य
र्जि तंक्ष्मस्त दा
भी नः क्रु द्धो
रा णिं वाक्यब्र वीत्