६.७६.१३

इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ।
दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥

अन्वयः

इति thus, उक्त्वा spoken, सप्तभिःseven, बाणैःshafts, लक्ष्मणम् at Lakshmana, विव्याथ pierced, तीक्ष्णधारैः pointed shafts, दशभिः ten, शरोत्तमैः best of shafts, हनूमन्तम् at Hanuman

M N Dutt

Seeing this, he pierced Lakşmaņa with seven shafts, and Hanumān with ten keen-edged excellent shafts.

Summary

Having spoken that way, Indrajith pierced Lakshmana with seven pointed shafts and Hanuman with ten best of shafts.

पदच्छेदः

इत्युक्त्वाइति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
सप्तभिर्सप्तन् (३.३)
बाणैर्बाण (३.३)
अभिविव्याधअभिविव्याध (√अभि-व्यध् लिट् प्र.पु. एक.)
लक्ष्मणम्लक्ष्मण (२.१)
दशभिश्चदशन् (३.३)–च (अव्ययः)
हनूमन्तंहनुमन्त् (२.१)
तीक्ष्णधारैःतीक्ष्ण–धारा (३.३)
शरोत्तमैःशर–उत्तम (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्त्वाप्त भि र्बा णै
भि वि व्याक्ष्म णम्
भिश्च नू न्तं
तीक्ष्ण धा रैः रोत्त मैः