६.७६.१७

नैवं रणगतः शूराः प्रहरन्ति निशाचर ।
लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ॥

अन्वयः

निशाचर night ranger, रणगताः coming for war, शूराः heroes, एवम् this way, प्रहरन्ति strike, तव your, इमेशराः these arrows, लघवश्च weak, अल्पवीर्याश्च less painful, सुखाःहि conducive

Summary

"O Night ranger! Heroes coming for war do not strike this way. These arrows are weak, so not painful but conducive."

पदच्छेदः

नैवं (अव्ययः)–एवम् (अव्ययः)
रणगताःरण–गत (√गम् + क्त, १.३)
शूराःशूर (१.३)
प्रहरन्तिप्रहरन्ति (√प्र-हृ लट् प्र.पु. बहु.)
निशाचरनिशाचर (८.१)
लघवश्चाल्पवीर्याश्चलघु (१.३)–च (अव्ययः)–अल्प–वीर्य (१.३)–च (अव्ययः)
सुखासुख (१.३)
हीमेहि (अव्ययः)–इदम् (१.३)
शरास्तवशर (१.३)–त्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नै वं तः शू राः
प्रन्तिनि शा
श्चाल्प वी र्याश्च
सु खा ही मे रास्त