६.७७.२९

अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् ।
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥

अन्वयः

अथ and then, सौमित्रिः Saumithri, राक्षससिंहस्य lion of Rakshasas, कनकभूषणान् decked in gold, कृष्णान् black, चतुरः four, हयान् horses, चतुर्भिः all the four, शरैः with shafts, विव्याध finished

M N Dutt

Then Sumitrā's son pierced the four black steeds of the leonine Räksasa, caparisoned in gold.

Summary

Then Saumithri pierced with four shafts all the four black horses decked in gold, of the lion of Rakshasas (Indrajith) and finished them

पदच्छेदः

अथअथ (अव्ययः)
राक्षससिंहस्यराक्षस–सिंह (६.१)
कृष्णान्कृष्ण (२.३)
कनकभूषणान्कनक–भूषण (२.३)
शरैश्चतुर्भिःशर (३.३)–चतुर् (३.३)
सौमित्रिर्सौमित्रि (१.१)
विव्याधविव्याध (√व्यध् लिट् प्र.पु. एक.)
चतुरोचतुर् (२.३)
हयान्हय (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष सिंस्य
कृ ष्णान्क भू णान्
रैश्च तु र्भिः सौ मित्रि
र्वि व्यातु रो यान्