६.७७.३२

विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ।
ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् ॥

अन्वयः

हरियूथपाः Vanara leaders, विषण्णवदनम् worried face, राक्षसम् of Rakshasa, दृष्टवा seeing, ततः then, परमसम्हृष्टाः very joyful, लक्ष्मणम् Lakshmana, अभ्यपूजयन् acclaimed

M N Dutt

Seeing the Rākşasa with his face fallen, the leaders of monkey-hands, were exceedingly delighted and rendered homage to Lakşmaņa.

Summary

The Vanara leaders were joyful upon seeing the worried face of the Rakshasa and acclaimed Lakshmana.

पदच्छेदः

विषण्णवदनंविषण्ण (√वि-सद् + क्त)–वदन (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
राक्षसंराक्षस (२.१)
हरियूथपाःहरि–यूथप (१.३)
ततःततस् (अव्ययः)
परमसंहृष्टोपरम–संहृष्ट (√सम्-हृष् + क्त, १.१)
लक्ष्मणंलक्ष्मण (२.१)
चाभ्यपूजयन् (अव्ययः)–अभ्यपूजयन् (√अभि-पूजय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विण्ण नं दृ ष्ट्वा
राक्ष संरि यू पाः
तः सं हृ ष्टो
क्ष्म णं चाभ्य पू यन्