६.७८.५२

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ।
लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा ॥

अन्वयः

तदा then, वानराः Vanara, लाङ्गूलानि tails, प्रविध्यन्तः wagging, स्फोटयन्तः च and lashing, लक्ष्मणःजयति Lakshman is winning, इत्येवम् in this way, वाक्यम् words, विश्रावयन् slogan announced

M N Dutt

And flourishing their tails and striking the earth (with them), the monkeys shouted, 'Victory to Laksmana!'

Summary

Then Vanaras wagging their tails and lashing them announced slogans saying," Lakshmana is winning."

पदच्छेदः

लाङ्गूलानिलाङ्गूल (२.३)
प्रविध्यन्तःप्रविध्यत् (√प्र-व्यध् + शतृ, १.३)
स्फोटयन्तश्चस्फोटयत् (√स्फोटय् + शतृ, १.३)–च (अव्ययः)
वानराःवानर (१.३)
लक्ष्मणोलक्ष्मण (१.१)
जयतीत्येवंजयति (√जि लट् प्र.पु. एक.)–इति (अव्ययः)–एवम् (अव्ययः)
वाक्यंवाक्य (२.१)
व्यश्रावयंस्तदाव्यश्रावयन् (√वि-श्रावय् लङ् प्र.पु. बहु.)–तदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ला ङ्गू ला निप्र वि ध्य न्तः
स्फो न्तश्च वा राः
क्ष्म णो ती त्ये वं
वा क्यं व्य श्रा यंस्त दा