६.८.१

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः ।
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥

अन्वयः

ततः then, शूरः hero, सेनापतिः chief of army, नीलाम्बुदनिभ: one whose body is like dark cloud, प्रहस्तोनाम: called Prahastha, राक्षसः Rakshasa, प्राञ्जलिः with folded palms, वाक्यम् these words. अब्रवीत् spoke.

M N Dutt

Then that heroic general, the Rākşasa named Prahasta, possessing the splendour of sable clouds, submitted with joined hands.

Summary

Then a Rakshasa whose body was like a dark cloud, called Prahastha, the heroic chief of the army, spoke these words with folded palms.

पदच्छेदः

ततोततस् (अव्ययः)
नीलाम्बुदनिभःनील–अम्बुद–निभ (१.१)
प्रहस्तोप्रहस्त (१.१)
नामनाम (अव्ययः)
राक्षसःराक्षस (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
प्राञ्जलिर्प्राञ्जलि (१.१)
वाक्यंवाक्य (२.१)
शूरःशूर (१.१)
सेनापतिस्तदासेनापति (१.१)–तदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो नी लाम्बुनि भः
प्र स्तो ना राक्ष सः
ब्र वी त्प्राञ्ज लि र्वा क्यं
शू रः से ना तिस्त दा