६.८०.२

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।
विभीषणसहायेन मिषतां नो महाद्युते ॥

अन्वयः

महाराज O King, तव your, महाद्युतिः highly glorious, आत्मजः son, युद्धे in battle, नः not, मिषताम् all of us were seeing, विभीषणसहायेन assisted by Vibheeshana, लक्ष्मणेन by Lakshmana, हतः killed

M N Dutt

O mighty monarch, in our very sight your exceedingly effulgent son has been slain by Lakş maņa with the help of Vibhīşaņa.

Summary

"O King! Your glorious son was killed by Lakshmana with the assistance of Vibheeshana, as we were witnessing."

पदच्छेदः

युद्धेयुद्ध (७.१)
हतोहत (√हन् + क्त, १.१)
महाराजमहत्–राज (८.१)
लक्ष्मणेनलक्ष्मण (३.१)
तवात्मजःत्वद् (६.१)–आत्मज (१.१)
विभीषणसहायेनविभीषण–सहाय (३.१)
मिषतांमिषत् (√मिष् + शतृ, ६.३)
नोमद् (२.३)
महाद्युतेमहत्–द्युति (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यु द्धे तो हा रा
क्ष्म णे वात्म जः
वि भी हा ये
मि तां नो हाद्यु ते