६.८०.३१

मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।
किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥

अन्वयः

मम my, वत्सेन son, मायया by hoodwinking, वनौकसाम् the Vanaras, वञ्चनार्थम् to cheat them, तत्र there, किञ्चिदेव something which was there, हतम् killed, इयम् this, सीताइति Sita, दर्शितम् showed

M N Dutt

By his power of illusion, my beloved child, for deceiving the wood-rangers, slaying something (else), had shown it to them as Sītā.

Summary

'My son showed the Vanaras there something which had been killed there to hoodwink as Sita."

पदच्छेदः

माययामाया (३.१)
मममद् (६.१)
वत्सेनवत्स (३.१)
वञ्चनार्थंवञ्चन–अर्थ (२.१)
वनौकसाम्वनौकस् (६.३)
किंचिद्कश्चित् (१.१)
एवएव (अव्ययः)
हतंहत (√हन् + क्त, १.१)
तत्रतत्र (अव्ययः)
सीतेयम्सीता (१.१)–इदम् (१.१)
इतिइति (अव्ययः)
दर्शितम्दर्शित (√दर्शय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा या त्से
ञ्च ना र्थं नौ साम्
किंचि दे तंत्र
सी तेमितिर्शि तम्