६.८०.३६

अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।
बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः ॥

अन्वयः

अद्य now, एनम् that, दृष्टवा seeing, तौ those two, भ्रातरौ brothers, उभौ both, प्रव्यथिष्यतःtremble, क्रुद्धेन fury, अनेन all the, चत्वारःfour, लोकपालाः ruler of the world, तर्जिताःहि would have disappeared, अन्ये others, बहवः many, शत्रवश्चापि enemies, संयुगेषु in wars, अभिपातिताःstruck down

M N Dutt

By this one influenced with passion were the four guardians of the worlds conquered; and many other foes were brought down in battle.

Summary

"Seeing Ravana, the two brothers will tremble. By Ravana's fury all the four rulers of the world (Indra, Yama, Varuna, Kubera), would have disappeared. He has struck down many other enemies in wars."

पदच्छेदः

अद्यैनंअद्य (अव्ययः)–एनद् (२.१)
तावुभौतद् (१.२)–उभ् (१.२)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
भ्रातरौभ्रातृ (१.२)
प्रव्यथिष्यतःप्रव्यथिष्यतः (√प्र-व्यथ् लृट् प्र.पु. द्वि.)
लोकपालालोकपाल (१.३)
हिहि (अव्ययः)
चत्वारःचतुर् (१.३)
क्रुद्धेनानेनक्रुद्ध (√क्रुध् + क्त, ३.१)–इदम् (३.१)
निर्जिताःनिर्जित (√निः-जि + क्त, १.३)
बहवःबहु (१.३)
शत्रवश्चान्येशत्रु (१.३)–च (अव्ययः)–अन्य (१.३)
संयुगेष्वभिपातिताःसंयुग (७.३)–अभिपातित (√अभि-पातय् + क्त, १.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
द्यै नं तावु भौ दृ ष्ट्वा भ्रा रौप्र
व्य थिष्य तः लो पा लाहि त्वा रः
क्रु द्धे ना ने निर्जि ताः वः
त्र श्चा न्ये संयु गेष्वभि पाति ताः