६.८०.७

ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे ॥

अन्वयः

क्रुद्धः angry, त्वम् you, इषुभिः arrows, कालान्तकौअपि like time spirit, मन्दरस्य Mandara mountain, शृङ्गाण्यपि the peak of, भिन्द्याः will pierce, ननुयुधि in battle, लक्ष्मणम् Lakshmana, किंपुनः why again

M N Dutt

Doubtless, you enraged could pierce with you arrows the Destroyer of Time himself, and the summit of Mandāra, what shall I say of Laks mana in encounted?

Summary

'When angry, you could pierce with arrows even the time spirit or peak of Mandara mountain, why to speak of Lakshmana again'?

पदच्छेदः

ननुननु (अव्ययः)
त्वम्त्वद् (१.१)
इषुभिःइषु (३.३)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
भिन्द्याःभिन्द्याः (√भिद् विधिलिङ् म.पु. )
कालान्तकावपिकाल–अन्तक (२.२)–अपि (अव्ययः)
मन्दरस्यापिमन्दर (६.१)–अपि (अव्ययः)
शृङ्गाणिशृङ्ग (२.३)
किं (१.१)
पुनर्पुनर् (अव्ययः)
लक्ष्मणंलक्ष्मण (२.१)
रणेरण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नुत्वमिषु भिः क्रु द्धो
भि न्द्याः का लान्त कापि
न्द स्यापि शृ ङ्गाणि
किंपु र्लक्ष्म णं णे