६.८१.३

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः ।
निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः ॥

अन्वयः

सर्वे all, भवन्तः of you, सर्वेण all, हस्त्वश्वेन elephants horses, समावृताः collected, रथसङ्घैश्च also chariots, पादातैश्च foot soldiers too, उपशोभिताः shining, निर्यान्तु march

पदच्छेदः

सर्वेसर्व (१.३)
भवन्तःभवत् (१.३)
सर्वेणसर्व (३.१)
हस्त्यश्वेनहस्तिन्–अश्व (३.१)
समावृताःसमावृत (√समा-वृ + क्त, १.३)
निर्यान्तुनिर्यान्तु (√निः-या लोट् प्र.पु. बहु.)
रथसंघैश्चरथ–संघ (३.३)–च (अव्ययः)
पादातैश्चोपशोभिताःपादात (३.३)–च (अव्ययः)–उपशोभित (√उप-शोभय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वे न्तः र्वे
स्त्य श्वे मावृ ताः
नि र्यान्तु सं घैश्च
पा दा तै श्चो शोभि ताः