६.८१.३२

हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् ।
आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः ॥

अन्वयः

हतैः killed, गजपदात्यश्वैःelephants, foot soldiers, horses तत् there, रणाजिरम् the battlefield, क्रुद्धस्य angry, महात्मनः great, रुद्रस्य Rudra's, अक्रीडभूमिःइव sports in field, बभूव seen

M N Dutt

The battle field, filled with slain horses, elephants and infantry, looked like the high-souled and enraged Rudra's arena of sports.

Summary

With the elephants, horses, and foot soldiers killed, the battlefield was like the ground where mighty Rudra sported in anger.

पदच्छेदः

हतैर्हत (√हन् + क्त, ३.३)
गजपदात्यश्वैस्तद्गज–पदाति–अश्व (३.३)–तद् (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
रणाजिरम्रण–अजिर (१.१)
आक्रीडभूमीआक्रीड–भूमि (१.१)
रुद्रस्यरुद्र (६.१)
क्रुद्धस्येवक्रुद्ध (√क्रुध् + क्त, ६.१)–इव (अव्ययः)
पिनाकिनःपिनाकिन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैर्ग दा त्य श्वै
स्तद्ब भू णाजि रम्
क्री भू मी रु द्रस्य
क्रु द्ध स्येपि नाकि नः