६.८१.३५

निहत्य तां राक्षसवाहिनीं तु; रामस्तदा शक्रसमो महात्मा ।
अस्त्रेषु शस्त्रेषु जितक्लमश्च; संस्तूयते देवगणैः प्रहृष्टैः ॥

M N Dutt

The high-souled Rāma, equalling Śakra in prowess, thus slaying the huge host of the lord of Rākşasas and assailing them with shafts and weapons-the celestials, delighted, saying his praises.

पदच्छेदः

निहत्यनिहत्य (√नि-हन् + ल्यप्)
तांतद् (२.१)
राक्षसवाहिनींराक्षस–वाहिनी (२.१)
तुतु (अव्ययः)
रामस्तदाराम (१.१)–तदा (अव्ययः)
शक्रसमोशक्र–सम (१.१)
महात्मामहात्मन् (१.१)
अस्त्रेषुअस्त्र (७.३)
शस्त्रेषुशस्त्र (७.३)
जितक्लमश्चजित (√जि + क्त)–क्लम (१.१)–च (अव्ययः)
संस्तूयतेसंस्तूयते (√सम्-स्तु प्र.पु. एक.)
देवगणैःदेव–गण (३.३)
प्रहृष्टैःप्रहृष्ट (√प्र-हृष् + क्त, ३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
नित्य तां राक्ष वाहि नींतु
रास्त दाक्र मो हा त्मा
स्त्रेषु स्त्रेषुजिक्लश्च
सं स्तू ते दे णैःप्र हृ ष्टैः