६.८२.१

तानि नागसहस्राणि सारोहाणां च वाजिनाम् ।
रथानां चाग्निवर्णानां सध्वजानां सहस्रशः ॥

पदच्छेदः

तानितद् (१.३)
नागसहस्राणिनाग–सहस्र (१.३)
सारोहाणां (अव्ययः)–आरोह (६.३)
(अव्ययः)
वाजिनाम्वाजिन् (६.३)
रथानांरथ (६.३)
चाग्निवर्णानां (अव्ययः)–अग्नि–वर्ण (६.३)
सध्वजानां (अव्ययः)–ध्वज (६.३)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तानि ना स्राणि
सा रो हा णां वाजि नाम्
था नां चाग्नि र्णा नां
ध्व जा नांस्र शः