६.८१.८

ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः ।
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥

अन्वयः

ते they, वानरराक्षसाः Vanaras and Rakshasas, तदा then, चित्राभिः wonderful, गदाभिः maces, प्रासैः darts, खडगैः swords, परश्वधैः axes, समरे in war, अन्योन्यम् one another, जघ्नुः attacked

M N Dutt

They struck each other in the conflict with clubs chitras, Prasas daggers and Parasvadha.

Summary

The Vanaras and Rakshasas attacked one another with wonderful maces, darts, swords, and axes in war.

पदच्छेदः

तेतद् (१.३)
गदाभिर्गदा (३.३)
विचित्राभिःविचित्र (३.३)
प्रासैःप्रास (३.३)
खड्गैःखड्ग (३.३)
परश्वधैःपरश्वध (३.३)
अन्योन्यंअन्योन्य (२.१)
समरेसमर (७.१)
जघ्नुस्तदाजघ्नुः (√हन् लिट् प्र.पु. बहु.)–तदा (अव्ययः)
वानरराक्षसाःवानर–राक्षस (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते दा भिर्वि चि त्रा भिः
प्रा सैः ड्गैःश्व धैः
न्यो न्यं रेघ्नु
स्त दा वा राक्ष साः