६.८२.२

राक्षसानां सहस्राणि गदापरिघयोधिनाम् ।
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥

पदच्छेदः

राक्षसानांराक्षस (६.३)
सहस्राणिसहस्र (१.३)
गदापरिघयोधिनाम्गदा–परिघ–योधिन् (६.३)
काञ्चनध्वजचित्राणांकाञ्चन–ध्वज–चित्र (६.३)
शूराणांशूर (६.३)
कामरूपिणाम्कामरूपिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष सा नां स्राणि
दारि योधि नाम्
काञ्चध्व चि त्रा णां
शू रा णां का रूपि णाम्