६.८२.३

निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ।
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥

पदच्छेदः

निहतानिनिहत (√नि-हन् + क्त, १.३)
शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैःशर (३.३)–तीक्ष्ण (३.३)–तप्त (√तप् + क्त)–काञ्चन–भूषण (३.३)
रावणेनरावण (३.१)
प्रयुक्तानिप्रयुक्त (√प्र-युज् + क्त, १.३)
रामेणाक्लिष्टकर्मणाराम (३.१)–अक्लिष्ट–कर्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि तानि रै स्ती क्ष्णै
स्तप्त काञ्च भू णैः
रा णेप्र यु क्तानि
रा मे णा क्लिष्टर्म णा