६.८२.२०

विभीषणवचः कुर्याद्यदि स्म धनदानुजः ।
श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ॥

अन्वयः

धनदानुजः younger brother of Kubera, विभीषणवचः Vibheeshana's words, कुर्यात् स्मयदि had followed, इयम् this, लङ्का Lanka, श्मशानभूता crematorium, दुःखार्ता stricken with grief, न भविष्यति would not have become

Summary

"Had Ravana, the younger brother of Kubera followed the advice of Vibheeshana, this Lanka would not have been stricken with grief and turned into a crematorium."

पदच्छेदः

विभीषणवचःविभीषण–वचस् (२.१)
कुर्याद्कुर्यात् (√कृ विधिलिङ् प्र.पु. एक.)
यदियदि (अव्ययः)
स्मस्म (अव्ययः)
धनदानुजःधनद–अनुज (१.१)
श्मशानभूताश्मशान–भूत (√भू + क्त, १.१)
दुःखार्तादुःख–आर्त (१.१)
नेयं (अव्ययः)–इदम् (१.१)
लङ्कालङ्का (१.१)
पुरीपुरी (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि भी चः कु र्या
द्य दिस्म दानु जः
श्म शा भू ता दुः खा र्ता
ने यं ङ्कापु री वेत्