६.८३.२१

तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः ।
बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति ॥

अन्वयः

तस्य his, तत् वचनम् the speech of Ravana, श्रुत्वा hearing, महापार्श्वःMahaparsva, तत्र there, स्थितान् standing, बलाध्यक्षान् mighty leaders, बलम् of army, संत्वर्यताम् enjoined, वचः words, अब्रवीत् spoke

M N Dutt

Hearing his words Mahāpārsva addressed the leaders of the army who were near him, saying, "Get your soldiers ready."

Summary

On hearing the speech of Ravana, Mahaparsva enjoined the mighty leaders of the army standing there and spoke as follows.

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
महापार्श्वोमहापार्श्व (१.१)
ऽब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचःवचस् (२.१)
बलाध्यक्षान्बलाध्यक्ष (२.३)
स्थितांस्तत्रस्थित (√स्था + क्त, २.३)–तत्र (अव्ययः)
बलंबल (१.१)
संत्वर्यताम्संत्वर्यताम् (√सम्-त्वरय् प्र.पु. एक.)
इतिइति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
हा पा र्श्वोऽब्र वीद्व चः
ला ध्य क्षान्स्थि तां स्तत्र
लं सं त्वर्य तामिति