६.८३.३४

नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।
विवर्णवदनश्चासीत्किंचिदभ्रश्यत स्वरः ॥

अन्वयः

वामम् left, नयनं च eyes too, अस्फुरत् twitched, वामः left, बाहुः arm, अकम्पत quivered, विवर्णवदनः pale face, आसीत् turned, किञ्चित् indeed, स्वनः tone, अभ्रश्यत turned hoarse

M N Dutt

His left eye and the left arm began to shakehis countenance became pale and his voice grew harsher.

Summary

His left eye twitched, left arm quivered, face turned pale and indeed his tone became hoarse.

पदच्छेदः

नयनंनयन (१.१)
चास्फुरद् (अव्ययः)–अस्फुरत् (√स्फुर् लङ् प्र.पु. एक.)
वामंवाम (१.१)
सव्योसव्य (१.१)
बाहुर्बाहु (१.१)
अकम्पतअकम्पत (√कम्प् लङ् प्र.पु. एक.)
विवर्णवदनश्चासीत्विवर्ण–वदन (१.१)–च (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
किंचिद्कश्चित् (२.१)
अभ्रश्यतअभ्रश्यत (√भ्रंश् प्र.पु. एक.)
स्वरःस्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नं चास्फु द्वा मं
व्यो बाहुम्प
विर्ण श्चा सी
त्किंचि भ्रश्यस्व रः