६.८४.२६

तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥

अन्वयः

तत् then, रक्षः Rakshasa, सुग्रीवेण by Sugriva, समुद्यतम्great effort, तलप्रहारम् slap by the palm, नैपुण्यात् with skill, मोचयित्वा hit, एनम् in that way, मुष्टिना fist, उरसि chest, अताडयत् hit

M N Dutt

And receding a little, he baffled its aim and returned one on Sugriva's breast.

Summary

Virupaksha, escaping the slap of Sugriva with great skill, hit him (Sugriva) on the chest with his fist.

पदच्छेदः

तलप्रहारंतल–प्रहार (२.१)
तद्तद् (१.१)
रक्षःरक्षस् (१.१)
सुग्रीवेणसुग्रीव (३.१)
समुद्यतम्समुद्यत (√समुत्-यम् + क्त, २.१)
नैपुण्यान्मोचयित्वैनंनैपुण्य (५.१)–मोचयित्वा (√मोचय् + क्त्वा)–एनद् (२.१)
मुष्टिनोरस्यताडयत्मुष्टि (३.१)–उरस् (७.१)–अताडयत् (√ताडय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र हा रं द्र क्षः
सु ग्री वे मुद्य तम्
नै पु ण्या न्मो यि त्वै नं
मुष्टि नोस्य ता यत्