६.८५.१०

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।
असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥

अन्वयः

ततः then, महोदरःMahodara, सहसा immediately, आपतन्तीम् coming towards him, दुरासदाम् difficult to break, तांशिलाम् that rock, दृष्टवा seeing, असम्भ्रान्तः not bewildered, बाणैः arrows, निर्बिभेद struck and broke

M N Dutt

Thereupon finding that crag about to fall, Mahodara fearlessly severed it with his arrows.

Summary

Then seeing the formidable rock coming towards him, he was not bewildered and immediately struck and broke it with his arrows.

पदच्छेदः

ताम्तद् (२.१)
आपतन्तींआपतत् (√आ-पत् + शतृ, २.१)
सहसासहसा (अव्ययः)
शिलांशिला (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
महोदरःमहोदर (१.१)
असंभ्रान्तस्ततोअसम्भ्रान्त (१.१)–ततस् (अव्ययः)
बाणैर्बाण (३.३)
निर्बिभेदनिर्बिभेद (√निः-भिद् लिट् प्र.पु. एक.)
दुरासदाम्दुरासद (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता मा न्तीं सा
शि लां दृ ष्ट्वा हो रः
सं भ्रा न्तस्त तो बा णै
र्निर्बि भेदु रा दाम्