६.८५.१८

तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥

अन्वयः

सः he, तम् that, उद्यम्य taking up, चिक्षेप shattered, सोऽऽपि on Mahodara, अन्याम् other, गदाम् mace, व्याक्षिपत्colliding with each other, तौ both, अन्योन्यम् one another, आसाद्य taking up, भिन्नौ broken, धरणीतले on the surface of the earth, पेततुः fell,

M N Dutt

Taking that musala up he hurled it at the Räkşasa and who again hurled a club; and both of them being severed fell down on the earth.

Summary

Sugriva took up the steel club and hurled at Mahodara who took another mace and hit back. Both collided with each other and shattered they fell down on the surface of the earth.

पदच्छेदः

तंतद् (२.१)
समुद्यम्यसमुद्यम्य (√समुत्-यम् + ल्यप्)
चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
सोतद् (१.१)
ऽप्यन्यांअपि (अव्ययः)–अन्य (२.१)
व्याक्षिपद्व्याक्षिपत् (√व्या-क्षिप् लङ् प्र.पु. एक.)
गदाम्गदा (२.१)
भिन्नावन्योन्यम्भिन्न (√भिद् + क्त, १.२)–अन्योन्य (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
पेततुर्पेततुः (√पत् लिट् प्र.पु. द्वि.)
धरणीतलेधरणी–तल (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं मु द्यम्य चि क्षे
सो ऽप्य न्यां व्याक्षिद्ग दाम्
भि न्ना न्योन्य मा साद्य
पे तुर्ध णी ले