६.८५.२१

उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।
भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ ॥

अन्वयः

तदा then, तूर्णम् quickly, उत्पेततुः getting up, परस्परम् one another, जघ्नतुः च striking, वीरौ heroes, अपराजितौ never been defeated, अन्योन्यम् one another, भुजैःarms, चिक्षिपतुः pushed

M N Dutt

Then rising up speedily they again assailed each other. Thus those two heroes unsubdued, struck each other with their arms.

Summary

Then quickly getting up striking one another, both the heroes who have never been defeated, pushed each other by their arms.

पदच्छेदः

उत्पेततुस्ततस्तूर्णंउत्पेततुः (√उत्-पत् लिट् प्र.पु. द्वि.)–ततस् (अव्ययः)–तूर्णम् (अव्ययः)
जघ्नतुश्चजघ्नतुः (√हन् लिट् प्र.पु. द्वि.)–च (अव्ययः)
परस्परम्परस्पर (२.१)
भुजैश्चिक्षेपतुर्भुज (३.३)–चिक्षेपतुः (√क्षिप् लिट् प्र.पु. द्वि.)
वीरावन्योन्यम्वीर (१.२)–अन्योन्य (२.१)
अपराजितौअपराजित (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्पे तुस्त स्तू र्णं
घ्न तुश्चस्प रम्
भु जै श्चि क्षे तु र्वी रा
न्योन्य राजि तौ