६.८६.१०

मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ।
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ॥

अन्वयः

मुहूर्तात् in a short while, लब्धसंज्ञः gaining consciousness, महाबलः mighty, महापार्श्वः Mahaparsva, बहुभिः many, बाणैः shafts, तम् them, अङ्गदम् on Angada, भूयःagain, प्रत्यविध्यत struck in turn

Summary

In a short while, regaining consciousness, mighty Mahaparsva struck Angada again with many shafts.

पदच्छेदः

मुहूर्ताल्मुहूर्त (५.१)
लब्धसंज्ञस्तुलब्ध (√लभ् + क्त)–संज्ञा (१.१)–तु (अव्ययः)
महापार्श्वोमहापार्श्व (१.१)
महाबलःमहत्–बल (१.१)
अङ्गदंअङ्गद (२.१)
बहुभिर्बहु (३.३)
बाणैर्बाण (३.३)
भूयस्तंभूयस् (अव्ययः)–तद् (२.१)
प्रत्यविध्यतप्रत्यविध्यत (√प्रति-व्यध् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु हू र्ता ल्लब्ध सं ज्ञस्तु
हा पा र्श्वो हा लः
ङ्ग दंहु भि र्बा णै
र्भू स्तं प्रत्य विध्य