६.८६.२०

स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ।
संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ॥

अन्वयः

पितृतुल्यपराक्रमःequal to father in prowess, वीरःheroic, सःअङ्गदःAngada, सुसङ्कृद्धः highly furious, आत्मनः himself, वज्रसङ्काशम् resembling thunderbolt, मुष्टिम् fist, सम्वर्तयामास clenched

Summary

Angada, who was equal to his father in his prowess, was highly furious and himself clenched his fist which resembled thunderbolt.

पदच्छेदः

तद् (१.१)
वीरोवीर (१.१)
वज्रसंकाशम्वज्र–संकाश (२.१)
अङ्गदोअङ्गद (१.१)
मुष्टिम्मुष्टि (२.१)
आत्मनःआत्मन् (६.१)
संवर्तयन्संवर्तयत् (√सम्-वर्तय् + शतृ, १.१)
सुसंक्रुद्धःसु (अव्ययः)–संक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
पितुस्तुल्यपराक्रमःपितृ (६.१)–तुल्य–पराक्रम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वी रोज्र सं का
ङ्ग दो मुष्टि मात्म नः
संर्तन्सु सं क्रु द्धः
पि तु स्तुल्य राक्र मः