६.८६.२३

तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ।
अभवच्च महान्क्रोधः समरे रावणस्य तु ॥

अन्वयः

तस्मिन् his, भूमौ on the ground, निपतिते fallen, तत् that, सैन्यम् army, सम्प्रचुक्षुभे bewildered, समरे in battle, रावणस्य Ravana's, महान् great, क्रोधः anger, अभवत् च became

Summary

Mahaparsva having fallen down in the battle, the army was bewildered, and Ravana was overcome with anger.

पदच्छेदः

तस्मिन्निपतितेतद् (७.१)–निपतित (√नि-पत् + क्त, ७.१)
भूमौभूमि (७.१)
तत्तद् (१.१)
सैन्यंसैन्य (१.१)
सम्प्रचुक्षुभेसम्प्रचुक्षुभे (√सम्प्र-क्षुभ् लिट् प्र.पु. एक.)
अभवच्चअभवत् (√भू लङ् प्र.पु. एक.)–च (अव्ययः)
महान्महत् (१.१)
क्रोधःक्रोध (१.१)
समरेसमर (७.१)
रावणस्यरावण (६.१)
तुतु (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिन्निति ते भू मौ
त्सै न्यं संप्र चुक्षु भे
च्च हा न्क्रो धः
रे रास्यतु