६.८६.७

स तु तेन प्रहारेण महापार्श्वो विचेतनः ।
ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ॥

अन्वयः

सःमहापार्श्वः that Mahaparsva, तेनप्रहारेण by that hit, विचेतनः lost consciousness, ससूतः with charioteer, तस्मात् from there, स्यन्दनात् chariot, विसंज्ञः senseless, भुवि on the ground, अपतत् fell

Summary

By that hit, Mahaparsva became unconscious and fell on the ground, senseless, from the chariot along with the charioteer.

पदच्छेदः

तद् (१.१)
तुतु (अव्ययः)
तेनतद् (३.१)
प्रहारेणप्रहार (३.१)
महापार्श्वोमहापार्श्व (१.१)
विचेतनःविचेतन (१.१)
ससूतः (अव्ययः)–सूत (१.१)
स्यन्दनात्स्यन्दन (५.१)
तस्माद्तद् (५.१)
विसंज्ञःविसंज्ञ (१.१)
प्रापतद्प्रापतत् (√प्र-पत् लङ् प्र.पु. एक.)
भुविभू (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु तेप्र हा रे
हा पा र्श्वोवि चे नः
सू तः स्यन्द ना त्त स्मा
द्वि सं ज्ञः प्राद्भुवि