६.८८.१६

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥

अन्वयः

तदा then, लक्ष्मणः Lakshmana, निशितैः sharpened, पञ्चभिः five, बाणैः arrows, तस्यराक्षसेन्द्रस्य that king of Rakshasa's, गजकरोपमम् resembling the trunk of elephant, धनुः bow, चिच्छेद split

M N Dutt

Then with five sharpened arrows Lakşmaņa severed the bow the bow of the Räkşasa-chief, resembling the trunk of an elephant.

Summary

Then Lakshmana split with five sharpened arrows the bow of Rakshasa king that resembled elephant's trunk.

पदच्छेदः

तस्यतद् (६.१)
बाणैश्चबाण (३.३)–च (अव्ययः)
चिछेदचिछेद (√छिद् लिट् प्र.पु. एक.)
धनुर्धनुस् (२.१)
गजकरोपमम्गज–कर–उपम (२.१)
लक्ष्मणोलक्ष्मण (१.१)
राक्षसेन्द्रस्यराक्षस–इन्द्र (६.१)
पञ्चभिर्पञ्चन् (३.३)
निशितैःनिशित (√नि-शा + क्त, ३.३)
शरैःशर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य बा णैश्च चि च्छे
नुर्ग रो मम्
क्ष्म णो राक्ष से न्द्रस्य
ञ्च भिर्निशि तैः रैः