६.८८.४३

अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् ।
अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः ।
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥

अन्वयः

तान् those, बाणान् arrows, अचिन्तयित्वा not minding, लक्ष्मणम् Lakshmana, समालशिष्य embracing, हनूमन्तम् to Hanumantha, महाकपिम् great Vanara, सुग्रीवंच Sugriva also, अब्रवीच्छ spoke

M N Dutt

Thinking nothing of those arrows. Rāma embracing Lakşmaņa, spoke to Hanuman and the mighty monkey, Sugriva.

Summary

Not minding the arrows struck, Rama embraced Lakshmana and spoke to Hanumantha and the great Vanara Sugriva.

पदच्छेदः

अचिन्तयित्वाअचिन्तयित्वा (अव्ययः)
तान्तद् (२.३)
बाणान्बाण (२.३)
समाश्लिष्यसमाश्लिष्य (√समा-श्लिष् + ल्यप्)
(अव्ययः)
लक्ष्मणम्लक्ष्मण (२.१)
अब्रवीच्चअब्रवीत् (√ब्रू लङ् प्र.पु. एक.)–च (अव्ययः)
हनूमन्तंहनुमन्त् (२.१)
सुग्रीवंसुग्रीव (२.१)
चैव (अव्ययः)–एव (अव्ययः)
राघवःराघव (१.१)
लक्ष्मणंलक्ष्मण (२.१)
परिवार्येहपरिवार्य (√परि-वारय् + ल्यप्)–इह (अव्ययः)
तिष्ठध्वंतिष्ठध्वम् (√स्था लोट् म.पु. द्वि.)
वानरोत्तमाःवानर–उत्तम (८.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
चिन्त यि त्वा ता न्बा णान्स मा श्लिष्य
क्ष्म णम्ब्र वीच्च नू न्तं
सु ग्री वं चै रा वःक्ष्म णं
रि वा र्ये ति ष्ठ ध्वं वा रोत्त माः