६.८८.८

तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः ।
पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव ॥

अन्वयः

रितस्ततःas they landed, सम्पतद्भिः together from the sky, पतद्भिश्च falling, तैः they, दीप्ता glowing, चन्द्रसूर्यग्रहैरिव like the moon sun and planets, गगनम् the sky, आसीत् illuminated, दिशश्च the quarters

M N Dutt

The firmament all round blazed up with those impendent (arms) as blaze up the cardinal quarters on the Sun and the Moon and the planets dropping down.

Summary

As they landed together from the sky glowing like Sun, moon, and the planets, it illuminated the quarters.

पदच्छेदः

तैर्तद् (३.३)
आसीद्आसीत् (√अस् लङ् प्र.पु. एक.)
गगनंगगन (१.१)
दीप्तंदीप्त (√दीप् + क्त, १.१)
संपतद्भिर्संपतत् (√सम्-पत् + शतृ, ३.३)
इतस्ततःइतस् (अव्ययः)–ततस् (अव्ययः)
पतद्भिश्चपतत् (√पत् + शतृ, ३.३)–च (अव्ययः)
दिशोदिश् (१.३)
दीप्तैश्चन्द्रसूर्यग्रहैर्दीप्त (√दीप् + क्त, ३.३)–चन्द्र–सूर्य–ग्रह (३.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तै रा सीद्ग नं दी प्तं
संद्भिरिस्त तः
द्भिश्चदि शो दी प्तै
श्चन्द्र सू र्यग्र हैरि