६.८९.२५

समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ।
साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥

अन्वयः

हरयः Vanaras, भूतलात् from the surface of the ground, उत्थितम् arisen, तंलक्ष्मणम् that Lakshmana, दृष्टवा seeing, सुप्रीताः very affectionately, साधुसाधुइति well done well done, लक्ष्मणम् Lakshmana, प्रत्यपूजयन् in turn offered prayers

M N Dutt

Seeing Lakşmaņa rise up from the earth, the monkeys, exceedingly rejoiced, honouring Laks mana, exclaimed, “Excellent! Excellent!"

Summary

Seeing Lakshmana rise up from the surface of the ground, the Vanaras said Well done and offered prayers very affectionately.

पदच्छेदः

समुत्थितंसमुत्थित (√समुत्-स्था + क्त, २.१)
तेतद् (१.३)
हरयोहरि (१.३)
भूतलात्भू–तल (५.१)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
लक्ष्मणम्लक्ष्मण (२.१)
साधुसाधु (१.१)
साध्वितिसाधु (१.१)–इति (अव्ययः)
सुप्रीताःसु (अव्ययः)–प्रीत (√प्री + क्त, १.३)
सुषेणंसुषेण (२.१)
प्रत्यपूजयन्प्रत्यपूजयन् (√प्रति-पूजय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मुत्थि तं ते यो
भू ला त्प्रेक्ष्यक्ष्म णम्
साधु साध्विति सु प्री ताः
सु षे णं प्रत्य पू यन्