६.८९.३४

अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥

अन्वयः

एषः, दिवाकरः Sun, कृतकर्मा having completed his day, यावत् before, अस्तम् sets, न यातिbefore departing, अस्य his, दुरात्मनःevil minded, वधम् destruction, शीघ्रम् quickly, अहम् I, इच्छामि wish

M N Dutt

I wish the speedy destruction of this impious one, ere the maker of day, having performed his work, has ascended the Setting-hill.

Summary

"I wish to see the destruction of this evil minded one quickly before the sun completes the day and sets."

पदच्छेदः

अहंमद् (१.१)
तुतु (अव्ययः)
वधम्वध (२.१)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
शीघ्रम्शीघ्रम् (अव्ययः)
अस्यइदम् (६.१)
दुरात्मनःदुरात्मन् (६.१)
यावद्यावत् (अव्ययः)
अस्तंअस्त (२.१)
(अव्ययः)
यात्येषयाति (√या लट् प्र.पु. एक.)–एतद् (१.१)
कृतकर्माकृत (√कृ + क्त)–कर्मन् (१.१)
दिवाकरःदिवाकर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हंतु मि च्छामि
शीघ्रस्यदु रात्म नः
या स्तं या त्ये
कृ र्मादि वा रः