६.९०.२१

ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् ।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥

अन्वयः

रामस्य Rama's, कामरूपिणः which change form as per their will, सुपर्णरूपाः form of eagles, ते they, विशिखाः shafts, महाजवान् great speed, सर्परूपान् snake forms, सर्वान् all, तान् of them, शरान् shafts, जघ्नुः flew

M N Dutt

The shafts of Rāma capable of wearing forms at will, turned into birds, destroyed all the exceedingly swift coursing arrows having the forms of serpents.

Summary

Those shafts of Rama in the form of eagles which could change their form at will, destroyed the serpent forms and they flew at great speed.

पदच्छेदः

तेतद् (१.३)
तान्तद् (२.३)
सर्वाञ्शराञ्सर्व (२.३)–शर (२.३)
जघ्नुःजघ्नुः (√हन् लिट् प्र.पु. बहु.)
सर्परूपान्महाजवान्सर्प–रूप (२.३)–महत्–जव (२.३)
सुपर्णरूपासुपर्ण–रूप (१.३)
रामस्यराम (६.१)
विशिखाःविशिख (१.३)
कामरूपिणःकामरूपिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते ता न्स र्वाञ्श रा ञ्ज घ्नुः
र्प रू पान्म हा वान्
सुर्ण रू पा रास्य
विशि खाः का रूपि णः