६.९०.५

ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः ।
तरुणादित्यसंकाशो वैदूर्यमयकूबरः ॥

पदच्छेदः

ततःततस् (अव्ययः)
काञ्चनचित्राङ्गःकाञ्चन–चित्र–अङ्ग (१.१)
किंकिणीशतभूषितःकिङ्किणी–शत–भूषित (√भूषय् + क्त, १.१)
तरुणादित्यसंकाशोतरुण–आदित्य–संकाश (१.१)
वैदूर्यमयकूबरःवैडूर्य–मय–कूबर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः काञ्च चि त्रा ङ्गः
किंकि णी भूषि तः
रु णा दित्य सं का शो
वै दूर्य कू रः