६.९०.६

सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।
हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः ॥

पदच्छेदः

सदश्वैःसत्–अश्व (३.३)
काञ्चनापीडैर्काञ्चन–आपीड (३.३)
युक्तःयुक्त (√युज् + क्त, १.१)
श्वेतप्रकीर्णकैःश्वेत–प्रकीर्णक (३.३)
हरिभिःहरि (३.३)
सूर्यसंकाशैर्सूर्य–संकाश (३.३)
हेमजालविभूषितैःहेमन्–जाल–विभूषित (√वि-भूषय् + क्त, ३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्वैः काञ्च ना पी डै
र्यु क्तः श्वेप्र कीर्ण कैः
रि भिः सूर्य सं का शै
र्हे जावि भूषि तैः