६.९०.७

रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥

पदच्छेदः

रुक्मवेणुध्वजःरुक्म–वेणु–ध्वज (१.१)
श्रीमान्श्रीमत् (१.१)
देवराजरथोदेवराज–रथ (१.१)
वरःवर (१.१)
अभ्यवर्ततअभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)
काकुत्स्थम्काकुत्स्थ (२.१)
अवतीर्यअवतीर्य (√अव-तृ + ल्यप्)
त्रिविष्टपात्त्रिविष्टप (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रुक्म वे णुध्व जः श्री मा
न्दे रा थो रः
भ्यर्त का कुत्स्थ
ती र्यत्रि विष्ट पात्