६.९१.१

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।
सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी ॥

अन्वयः

क्रुद्धस्य enraged, धीमतः wise, तस्यरामस्य that Rama's, वदनम् countenance, दृष्टवा seeing, सर्वभूतानि all beings, वित्रेसुः frightened, मेदिनी च on earth, प्राकम्पत were shaken

M N Dutt

Seeing the face of the enraged Rāma endued with under standing all the creatures were overwhelmed with fear and the Earth herself shook.

Summary

Seeing enraged wise Rama's countenance, all beings on earth were shaken in fear.

पदच्छेदः

तस्यतद् (६.१)
क्रुद्धस्यक्रुद्ध (√क्रुध् + क्त, ६.१)
वदनंवदन (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रामस्यराम (६.१)
धीमतःधीमत् (६.१)
सर्वभूतानिसर्व–भूत (१.३)
वित्रेषुःवित्रेषुः (√वि-त्रस् लिट् प्र.पु. बहु.)
प्राकम्पतप्राकम्पत (√प्र-कम्प् लङ् प्र.पु. एक.)
(अव्ययः)
मेदिनीमेदिनी (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य क्रु द्धस्य नं
दृ ष्ट्वा रास्य धी तः
र्व भू तानि वि त्रे षुः
प्राम्प मेदि नी