६.९१.२२

निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् ।
रावणस्य महाशूलः पतंगानिव पावकः ॥

अन्वयः

रावणस्य Ravana's, सः that, महान् great, शूलः trident, रामकार्मुकनिःसृतान् arrows released from Rama's bow, तान् बाणान् those arrows, पावकः fire, पतङ्कानिव like moths, निर्ददाह burnt

M N Dutt

Then even as a flame consume insects, the mighty dart of Rāvana burnt up those shafts shot from the bow of Råma.

Summary

The arrows released from Rama's bow fell on the great trident of Ravana and burnt like moths falling in fire.

पदच्छेदः

निर्ददाहनिर्ददाह (√निः-दह् लिट् प्र.पु. एक.)
तद् (१.१)
तान्तद् (२.३)
बाणान्बाण (२.३)
रामकार्मुकनिःसृतान्राम–कार्मुक–निःसृत (√निः-सृ + क्त, २.३)
रावणस्यरावण (६.१)
महाशूलःमहत्–शूल (१.१)
पतंगान्पतंग (२.३)
इवइव (अव्ययः)
पावकःपावक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निर्द दा ता न्बा णा
न्रा कार्मु निःसृ तान्
रास्य हा शू लः
तं गानि पा कः