६.९२.२४

बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।
रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ॥

अन्वयः

संयुगे in battle, शत्रोः enemy, निधनकाङ्क्षिणः desirous of destruction, रामस्य Rama's, वीर्यम् valiance, बलम् strength, हर्षश्च enthusiasm, अस्त्रबलंचैव and strength of missiles, द्विगुणम् doubled, बभूव became

M N Dutt

The prowess and strength and spirits and force of arms of Rāma burning for the destruction of his foe, were doubled.

Summary

The strength, valiance, enthusiasm, and the strength of missiles of Rama, who was desirous of the destruction of the enemy, doubled.

पदच्छेदः

बभूवबभूव (√भू लिट् प्र.पु. एक.)
द्विगुणंद्विगुण (१.१)
वीर्यंवीर्य (१.१)
बलंबल (१.१)
हर्षश्चहर्ष (१.१)–च (अव्ययः)
संयुगेसंयुग (७.१)
रामस्यास्त्रबलंराम (६.१)–अस्त्र–बल (१.१)
चैव (अव्ययः)–एव (अव्ययः)
शत्रोर्शत्रु (६.१)
निधनकाङ्क्षिणःनिधन–काङ्क्षिन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भूद्विगु णं वी र्यं
लं र्षश्च संयु गे
रा स्यास्त्र लं चै
त्रोर्नि काङ्क्षि णः