६.९२.२८

यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।
नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना ॥

अन्वयः

यदा like that, शस्त्रम् missiles, नारेभे not started, शरासनम् arrows, न चकर्ष not able to stretch bow, विक्लबेन confused, अन्तरात्मना mentally, अस्य his, वीर्यम् valiance, न प्रत्यकरोत् not oppose

Summary

Being confused mentally, Ravana did not start his arrows, nor stretch his bow, nor was able to use missiles and was not able to oppose Rama's valour.

पदच्छेदः

यदायदा (अव्ययः)
(अव्ययः)
शस्त्रंशस्त्र (२.१)
नारेभे (अव्ययः)–आरेभे (√आ-रभ् लिट् प्र.पु. एक.)
(अव्ययः)
व्यकर्षच्छरासनम्व्यकर्षत् (√वि-कृष् लङ् प्र.पु. एक.)–शरासन (२.१)
नास्य (अव्ययः)–इदम् (६.१)
प्रत्यकरोद्प्रत्यकरोत् (√प्रति-कृ लङ् प्र.पु. एक.)
वीर्यंवीर्य (२.१)
विक्लवेनान्तरात्मनाविक्लव (३.१)–अन्तरात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा स्त्रं ना रे भे
व्य र्षच्छ रा नम्
ना स्य प्रत्य रो द्वी र्यं
विक्ल वे नान्त रात्म ना