६.९२.३०

सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् ।
शनैर्युद्धादसंभान्तो रथं तस्यापवाहयत् ॥

अन्वयः

अस्य his, रथनेता charioteer, सूतस्तु Sutha, तदवस्थम् that condition, तम् him, निरीक्ष्य observing, असम्भ्रान्तः quietly, शनैः slowly, तस्य his, रथम् chariot, युद्धात् from the battlefield, अपवाहयत् withdrew

Summary

Observing his (Ravana's) condition, the charioteer quietly, slowly withdrew his chariot from the battlefield.

पदच्छेदः

सूतस्तुसूत (१.१)–तु (अव्ययः)
रथनेतास्यरथ–नेतृ (१.१)–इदम् (६.१)
तदवस्थंतद्–अवस्था (२.१)
निरीक्ष्यनिरीक्ष्य (√निः-ईक्ष् + ल्यप्)
तम्तद् (२.१)
शनैर्शनैस् (अव्ययः)
युद्धाद्युद्ध (५.१)
असंभ्रान्तोअसम्भ्रान्त (१.१)
रथंरथ (२.१)
तस्यापवाहयत्तद् (६.१)–अपवाहयत् (√अप-वाहय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सूस्तु ने तास्य
स्थंनि रीक्ष्य तम्
नै र्यु द्धा सं भा न्तो
थं स्या वा यत्