६.९३.२४

संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।
प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥

अन्वयः

तस्यसारथेः by that charioteer, तेनवाक्येन by those words, सन्तुष्टः fully satisfied, रावणः Ravana, एनम् in that way, बहुविधम् many ways, प्रशस्य praised, युद्धलुब्दः desiring to wage war, इदम् thus, अब्रवीत् spoke

M N Dutt

Thereat, well pleased with the speech of the charioteer, Ravana, eager for encounter, after praising him in various ways said.

Summary

Ravana was fully satisfied with the words of the charioteer. He praised the charioteer in many ways and spoke like this desiring to wage war.

पदच्छेदः

संतुष्टस्तेनसंतुष्ट (√सम्-तुष् + क्त, १.१)–तद् (३.१)
वाक्येनवाक्य (३.१)
रावणस्तस्यरावण (१.१)–तद् (६.१)
सारथेःसारथि (६.१)
प्रशस्यैनंप्रशस्य (√प्र-शंस् + कृत्)–एनद् (२.१)
बहुविधंबहुविध (२.१)
युद्धलुब्धोयुद्ध–लुब्ध (√लुभ् + क्त, १.१)
ऽब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
इदम्इदम् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं तु ष्ट स्ते वा क्ये
रा स्तस्य सा थेः
प्र स्यै नंहुवि धं
युद्ध लु ब्धोऽब्र वीदि दम्