६.९३.२७

ततो द्रुतं रावणवाक्यचोदितः; प्रचोदयामास हयान्स सारथिः ।
स राक्षसेन्द्रस्य ततो महारथः; क्षणेन रामस्य रणाग्रतोऽभवत् ॥

M N Dutt

And urged on by the speech of Rāvana, the charioteer drove on the steeds, and in a moment the mighty chariot of the Rākşasa-chief appeared before Rāma in the field of battle.

पदच्छेदः

ततोततस् (अव्ययः)
द्रुतंद्रुतम् (अव्ययः)
रावणवाक्यचोदितःरावण–वाक्य–चोदित (√चोदय् + क्त, १.१)
प्रचोदयामासप्रचोदयामास (√प्र-चोदय् प्र.पु. एक.)
हयान्हय (२.३)
तद् (१.१)
सारथिःसारथि (१.१)
तद् (१.१)
राक्षसेन्द्रस्यराक्षस–इन्द्र (६.१)
ततोततस् (अव्ययः)
महारथःमहत्–रथ (१.१)
क्षणेनक्षण (३.१)
रामस्यराम (६.१)
रणाग्रतोरण–अग्रतस् (अव्ययः)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तोद्रु तं रा वाक्य चोदि तः
प्र चो या मा यान्स सा थिः
राक्ष से न्द्रस्य तो हा थः
क्ष णे रास्य णाग्र तोऽभ वत्